Table Of Contentत
ध
द्वितीयखण्डम्
व्याख्याचतुष्टयोपेतम्
कुलपतेः प्रो. राजेनद्रमिश्रस्य प्रस्तावनया विभूषितम्
सम्पादकः
डॉ. जानकीप्रसादद्विवेदी
SARASVATIBHAVANA - GRANTHAMALA
[ Vol. 135 ]
KATANTRAVYAKARANA
OF
ACARYA SARVAVARMA
[ PART - THREE ]
(VOLUME - I )
With four Commentaries
'VRITT & TIKA'
BY
SRI DURGA SINGH
'KATANTRAVRTTI PANJIKA'
4 कको B Y छि
SRITRILOCANADASA
'KALAPACANDRA'
BY
KAVIRAJA SUSENA SARMA
'BILVESVARATIKA'
ह
ACARYA BILYESVARA
'SAMIKSA'
By Editor
FOREWORD BY
PROF. RAJENDRA MISHRA
VICE - CHANCELLOR
EDITED BY
PROF. JANAKI PRASADA DWIVEDI
Dean, faculty of Sabdavidyd
Central Institute of Higher Tibetan Studies
(Deemed University) Sarnath, Varanasi.
\ गभे ि3a
VARANASI]
2003
Research Publication Supervisor — ISBN: 81-7270-052-0 (Vol. HI, Part I)
Director, Research Institute ISBN : 81-7270-006-7 (Set)
Sampurnanand Sanskrit University
Varanasi.
Published by —
Dr. Harish Chandra Mani Tripathi
Director, Publication Institute
Sampurnanand Sanskrit University
Varanasi-221 002.
छि
Available at —
Sales Department,
Sampurnanand Sanskrit University
Varanasi-221 002
C
First Edition, 500 Copies
Price : Rs. 500.00
CO
Printed by —
Anand Printing Press
C. 27/170-A, Jagatganj,
Varanasi-221 002
सरस्वतीभवन-ग्रन्थमाला
[ १३५ ]
आचार्यशर्ववर्मप्रणीतं
कातन्त्रव्याकरणमू्
(तृतीयो भागः)
[ द्वितीयखण्डम् ]
श्रीदुर्गसिहेकृताभ्या कातन्त्रवृत्ति-रीकाभ्यां
श्रीमत्तरिलोचनदासकृतया 'कातन्त्रवृत्तिपञ्जिका-टीकया
कविराजसुबेणशर्मकृतया 'कलापचन्द्र-टीकया
आचार्यबिल्वेश्वरकृतटीकया
सम्पादकीयसमीक्षया
कुलपतेः प्रो०राजेनद्रमिश्रस्य प्रस्तावनया च समलङ्कृतम्
सम्पादक:
प्रो०जानकीप्रसादद्विवेदः
आचार्यः संस्कृतविभागे, शब्दविद्यासङ्कायाक्धष्शय् च
केन्द्रीय-उच्चतिब्बतीशिक्षासंस्थानम्, सारनाथः, वाराणसी
वाराणस्याम्
२०६० तमे वैक्रमाब्दे १९२५ तमे शकाब्दे २००३ तमे खैस्ताब्दे
अनुसन्धानप्रकाशनपर्यवेक्षक: -
- ISBN: 81-7270-102-0 (Vol. IIL, Part ID
निदेशकः, अनुसन्धानसंस्थानस्य
ISBN : 81-7270-006-7 (Set)
सम्पूर्णानन्द-संस्कृत-विश्वविद्यालये
वाराणसी।
CO
प्रकाशकः -
डॉ०हरिश्चन्द्रमणित्रिपाठी
निदेशकः:, प्रकाशनसस्थानस्य
सम्पूर्णानन्द-संस्कृत-विश्वविद्यालये
वाराणसी-२२१००२
[]
प्राप्तिस्थानम् -
विक्रय-विभागः,
सम्पूर्णानन्द-संस्कृत-विश्वविद्यालयस्य
वाराणसी-२२१००२
छि
प्रथमं संस्करणम्, ५०० प्रतिरूपाणि
मूल्यम् - ५००.०० रूप्यकाणि
C
मुद्रकः --
आनन्द प्रिंटिंग प्रेस
सी० २७/१७०-ए, जगतगंज,
वारणसी-२२१००२
नान्दीवाक्
कोविदं शर्ववर्माणं नौमि कातन्त्रमार्मिकम् ।
दर्शितश्शब्दविद्याया येन मार्गो विलक्षणः।।
ताथागतो भवेदाहोस्विदसौ स्याज्जिनानुगः । ।
शब्दानुशासनस्थेम्ना शर्ववर्मा महीयते ।।
प्रथमवेदाङ्गत्वेन सुप्रतिष्ठितं व्याकरणशास्ं प्रत्नकालादिदानीं यावत्पाण्डित्य-
पर्यायभूतमङ्गीक्रियते विद्वत्समवाय इत्यत्र न कोऽपि संशीतिलेशः । व्याकरणं
वेदस्याङ्गमितिमात्रं विदन्ति प्रायेण सर्वे । तत्र न किमप्यनौचित्यम् । अङ्गं तु वर्तत
एव व्याकरणं वेदस्य । परन्तु नैतावदेव । अङ्गशब्दस्य सार्थकता क्वचिदन्यस्मिन्नप्यर्थ
सन्दूब्धा दृश्यते । अङ्गयन्ते प्रकाश्यन्ते विशदीक्रियन्ते वा वेदार्था अनेनेत्यङ्गमितीयं
व्याख्यैव वेदाङ्गशब्दं सार्थकं साधयति । व्याकरणमपि वेदार्थप्रकाशनक्षमतयैव
तदङ्गमुच्यत इति ममाभिप्रायः । |
बराह्मणेन निष्कारणं षडङ्गो वेदोऽ ध्येयो ज्ञेयश्चेत्युपदिशन् महाभाष्यकारोऽपि
वेदषडङ्गजातं माहात्म्यदृशा विशिनष्टि । प्रथमे हि विद्वांसो वैय्याकरणा इति प्रतिपादयताऽधि-
ध्वन्यालोकमाचार्यानन्दवर्धनेनापि व्याकरणशास्त्राधमर्णत्वमेवाऽऽलङ्कारिकाणां सश्रद्ध
प्रकटितम् । किञ्च, लोकपरम्परायामपि सुभाषितमुखेन व्याकरणज्ञानस्यापरिहार्यत्वं
प्रचलितमेव । तद्यथा-
यद्यपि बहु नाधीषे पठ पुत्र तथापि व्याकरणम् ।
स्वजनः श्वजनो मा भूत्सकलः शकलः सकृच्छकृत् ।।
एवंगुणविशिष्टमिदं विलक्षणशास्रमतिचिरत्नमित्यप्यवधेयम् । महाभाष्यकारः
पतञ्जलिरेवात्र प्रमाणं य: खलु व्याकरणाध्ययनपरम्परां पौराणीं तदनन्तताञ्च साधु
प्रतिपादयति । देवगुरुबृहस्पतिर्वक्ता, साक्षाद्देवराज इन्द्र एवाऽध्येता, दिव्यञ्च
वर्षसहस्रं प्रवचनावधिः। हन्त, तथापि शब्दविद्यायाः पारं न जगाम । एवं स्फारीकुर्वाणो
भाष्यकार: शब्दानुशासनाध्ययनपरम्पराया दैवं स्वरूपं प्रतिपादयति । तदेव व्याकरणशास्रं
[२]
लोकमवतीर्य विविधैराचार्यैः प्रोक्तं सत्सहस्रधारतामुपगतम् । यद्यपि वाङ्मयालोके
महामुने: पाणिनेरेव महती प्रतिष्ठा संल्लक्ष्यते, त्रिमुनिव्याकरणमिति विद्वज्जनमान्य-
तायां शिरोरत्नभूतत्वात् । तथापि नैतदविदितं विदुषां यत् प्रागपि पाणिनेरनेके
यशस्विनश्शाब्दिकाः सञ्जाताः । तद्यथा --
ऐन्द्रश्चान्द्रः काशकृत्स्नापिशली शाकटायनः ।
पाणिन्यमरजैनेन्द्रा जयन्त्यष्टौ च शाब्दिकाः ।।
किञ्च, महामुनिः पाणिनिः स्वयमपि पदे पदेऽष्टाध्याय्यां स्वपूर्वसूरीन्
वैय्याकरणान् सबहुमानं स्मरति । तत्र प्रथन्ते भागुरि-शाकल्य-स्फोटायनप्रभृतयः ।
वस्तुतो लोकम्भरीयेयं पाटी शब्दविद्योपासकानां माहेश्वरपरम्परेत्युच्यते । अस्यां
परम्परायामेव त्रिमुनेरनन्तरं वामनजयादित्य-हरदत्त-कौण्डभट्ट-भट्टोजिदीक्षित-
नागेशभट्टादयष्टीकाकाराः प्रक्रिया्रन्थकाराश्च समवतीर्णाः ।त ै: पल्लवितं गगनाभोगविस्तृतं
विपुलवाङ्मयं शब्दानुशासनस्येदानीमपि राष्ट्रेऽस्मिन् सुरक्षितं तिष्ठति ।
परन्तु समुज्जृम्भमाणे सति वैदिकधर्मविसंवादिनि सौगते जैने च सम्म्रदाये
भारतराष्ट्रस्य परिस्थितिरेव विपरिवर्तिता । ईश्वरास्तित्वप्रत्याख्यानपरयोरनयोः
सम्प्रदाययोर्यथा यथा कालक्रमापेक्षो विकासस्सञ्जातस्तथा तथैव वैदिकधर्मसंस्कृति-
वाङमयपाराङमुख्यमप्येतयोः स्फारतामुपगतम् । विकासस्यान्तिमावस्थायान्तु
विसंवादोऽयमुभयोः प्रतिपदं प्रतिसन्दर्भप्रतिप्रकरणञ्च समवलोक्यते ।
दार्शनिकं चिन्तनं बौद्धजैनमतयोरपि सन्दृश्यते; परन्तु तत्र वैदिकदर्शनानां
सांख्ययोगन्यायवैशेषिकमीमांसावेदान्तादीनां प्रायेण सर्वेऽपि सिद्धान्ताः खण्डिता
न्यक्कृता अन्यथाव्याख्याता वा। एवंकरणे तु क्वचिद्युक्तियुक्तत्वमपि परिदृश्यते ।
प्रायेण किन्तु महीयते पूर्वागरहग्रस्ततैव ।
वैदिकीं पुराणपरिपाटीं प्रतिस्पर्ध्य जैनविपश्चिद्धिरपि प्रणीतानि पुराणानि;
परन्तु तेषु पुराणेषु वर्णितास्तावन्त एव शलाकापुरुषा इतिहाससम्मता संल्लक्ष्यन्ते
यावन्तो वैदिकपरम्परातः प्रसह्य आत्मसात्कृता: । ये पुनर्नलरामवसुदेवकृष्णादीतराः
स्वोपज्ञशलाकापुरुषास्ते केवलं काल्पनिका कथानायका एव ।न तेषां दृश्यते
कोऽपि यथार्थेतिहासः । एतदुक्तं भवति यद् वेदमात्रं विहाय जैनमतावलम्बिनः
प्रतिस्पर्धामनस्कतया सर्वमपि वैदिकं वाङ्मयं तुल्यगुणविशिष्ट्ैः स्वोपजञगरन्थैस्तुल-
[३]
यितुमुपचक्रमिरे । वेदपरम्परावलम्बीनि महाकाव्यानि स्वमतपोषकैर्महाकाव्यैः,
खण्डकाव्यानि खण्डकाव्यैः, कोषग्रन्थान् कोषग्रन्थै:, व्याकरणग्रन्थान् व्याकरणग्रम्यैः,
नाट्यकथाचम्प्वादिरचनास्तद्गुणविशिष्टाभी रचनाभिः, दर्शनसिद्धान्तांश्च स्वदर्शनसिद्धामतैस्ते
यथाशक्ति यथामति सन्तुलितवन्तः । इयं वाङ्मयी प्रतिस्पर्धा परां काष्ठामधिरूढा
सन्दृश्यते यदा वयं विष्णुसहस्नामप्रतिस्पर्िनीं .कृ तिं जिनसहस्रनामेति
नाम्नीमवलोकयामः ।
भवतु, अनया वाङमय्या प्रतिस्पर्धया भगवत्या मल्लिकाक्षवाहिन्या
महानुपकारस्सञ्जातः । न केवलं संख्यादृष्ट्या प्रत्युत काव्यसौष्ठव-चिन्तनगाम्भीर्य-
बुद्धिविलासादिदृष्ट्याऽपि जैनमतकृतयः क्वचिन्महीयन्त एव । विशेषेण, मध्यकालीनो
भारतीयेतिहासो यथा सुरक्षितो दृश्यते जैनमतग्रन्थेषु, न तथा क्वचिदन्यत्र । चातुर्मास्य-
परम्परापरिपालननिरता नित्ययायावरा जैनश्रमणा लोकवृत्तानां प्रत्यकषद्रष्टार आसन् ।
ग्रामग्रामटिकाऽरण्यपर्वतकन्दरानदनदीसागरादिपरिज्ञानपि तेषां प्रत्यक्षानुभूतमेवाऽऽ-
सीत् । ततश्चैव जैनागमवाङ्मये समग्रमपि राष्ट्रं प्रतिबिम्बितं परिलक्ष्यते।
नरनारीभूतप्रेतपिशाचपशुपक्षिप्रभृतिविविधजीवानां सूक्ष्मातिसूकष्माः प्रवृत्तीरपि महातपस्विन
एते श्रमणा हस्तामलकवत् सहजमेव विदुः । |
प्रकृतमनुसरामस्तावत् । सैव वाङ्मयी प्रतिस्पर्धोभयोर्धर्मयोर्मध्ये शब्दानुशासन-
परम्परामप्यवलम्ब्य प्रवृत्ता दृश्यते । ऐन्द्री व्याकरणपरम्परा55द्यतमा परिलक्ष्यते
महाभाष्यप्रामाण्यात् । वस्तुतः शिक्षानिरुक्तव्याकरणाभिधासत्रयोऽपि वेदाङ्गविषया
मिथस्सम्मिश्रिता एव परिलक्ष्यन्ते । व्याकरणं शब्दसाधुत्वं प्रतिपादयति, निरुक्तं
तस्यैव शब्दस्य निर्वचनविषयिणीर्विविधाः सम्भावना गवेषयते, शिक्षाप्रतिपादयितृ
प्रातिशाख्यञ्चापि विविधवेदशाखाप्रयुक्तशब्दसमवायस्य वैभिन्र्यं किञ्च,
तेषामुच्चारणादिवैशिष्ट्यं विवृणोति । समेषामेवैषां विचारणा शब्दकेन्द्रितैव दृश्यते ।
अत्रापि निरुक्तप्रातिशाख्यपरम्परा तु वेदविवेचनमात्रपर्यवसितत्वाद् मध्येमार्गमेव
क्वचिन्निरुद्धा परन्तु शब्दसाधुत्वसिद्धिमात्रकेन्द्रितं व्याकरणशास्त्रमुत्तरोत्तरमुप-
बृंहणपरिष्करणान्यथोपपादनादिप्रक्रियाभिर्विकासमुपगतम् ।
वस्तुत इयमासीन्माहेश्वरी परम्परा शब्दानुशासनस्य । चिरं यावदियं परम्परा
महर्षिपाणिनयुपदिष्टमष्टाध्यायीमनुसरन्ती लोके परमां समज्ञां भेजे । महेश्वरडमरुकनिना-
[४]
दोद्गतचतुर्दशसूत्राणि व्याचक्षाणो दाक्षीसूनुश्शालातुरीयः पाणिनि: पूर्वसूरिमतानि
सङ्गृह्य स्वाभिमतं निर्दुष्टं शब्दानुशासनं कृतवान् । तस्यैव नैयून्यं मनसि निधाय
कात्यायनः कालान्तरे वात्तिकजातं प्रणिनाय । वात्तिकाणाञ्चापि साधुत्वमसाधुत्वं
विचारयन् महाभाष्यकारः पतञ्जलिरष्टाध्याय्याः साङ्गोपाङ्गसमीक्षां कृतवान् ।
परिष्कारपरिबृंहणादिपरम्परेयं नागेशभट्टं यावद् (अष्टादशतमखिस्ताब्दं यावत् ) निर्विध्नं
प्रवर्तमाना सन्दृश्यते ।
माहेश्वरीपरम्पराप्रतियोगिन्येवासीन्माहेन्द्री परम्परा शब्दानुशासनस्य या खलु
जैनमतानुयायिभिः किञ्च॒ सौगतैश्चापि स्वीकृता पोषिता चाऽभूत् । शर्ववर्मप्रणीतं
कातन्त्रव्याकरणं जैनपरम्पराभिमतमासीदिति प्रायोवादस्सम्प्रति प्रचलति जैनविद्वत्समवाये।
व्याकरणस्यास्य रचनाविषये यो वृत्तान्तः प्रचलितस्तेनास्य रचनाकालोऽपि
स्पष्ठतामुपयाति। राज्ञः सातवाहनस्य शब्दविद्यामर्मज्ञा विदुषी राज्ञी, सरोवरजलैरसकृत्
प्रहरन्तं पतिं निवारयन्ती प्राह-मोदकं देहीति । मा उदकं देहि, उदकप्रहारैर्मा
पीडयेत्यासीदभिप्रायो राज्ञ्याः; परन्तु शब्दविद्याज्ञानविरहितो नरपतिर्मोदकपदगतं
सन्धिरहस्यमविजानन् प्रियां सलिलक्रीडारतां प्रसादयितुं मोदकपिटकमेव प्रस्तुतवान्
येन तन्मौढ्यसन्तप्ता राज्ञी स्फुटितहदया जाता ।
तद्वृत्तं विज्ञायैव नरपतिं सुष्ठुरीत्या शाब्दानुशासनपारङ्गतं विधातुं महावैय्या-
करण: शर्ववर्मा मा उदकं देहीति राज्ञ्युक्तं पदत्रयमवलम्ब्य अध्यायत्रयपरिमितं
कातन्त्रव्याकरणं प्रणीतवान् । माहेन्द्रीं परम्परां पुष्णातीदं व्याकरणमिति कोविदाः ।
किं वैशिष्ट्यमस्याः परम्परायाः । तदुच्यते- माहेश्वरीपरम्परा प्रत्याहारजटिला
लोकाप्रयुक्तकृत्रिमशब्दसिद्धिपरा शब्दलाघवैकलक्ष्या चाभिमन्यते । माहेन्द्रीपरम्परा
पुनः अर्थलाघवैकलक्ष्या लोकव्यवहृतशब्दसिद्धिपरा सुखाधिरोहा सङ्क्षिप्ता चेति ।
नामकरणरहस्यमपि विशदीक्रियते विपश्चिद्धिर्विचित्रयैव युक्त्या । काऽसौ ?
काशकृत्स्नतन्त्रापेक्षया सङ्क्षिप्तत्वादेव व्याकरणमिदं कातन्त्रमित्युच्यते ।
व्याख्याविषयेऽस्मिन् विपश्चिदपश्चिमा एव प्रमाणम् । अन्यथा कुत्सितं तन्त्र
कातन्त्रमिति व्याख्याते सति काऽप्यन्यैव विचिकित्सा समृत्तिष्ठेत् ।
भवतु । कातन्त्रव्याकरणस्य सर्वजनोपयोगित्वमद्यापि रहस्यगर्भमेव तिष्ठति ।
एतदपि समुत्रेक्ष्यते यत्स्वगुणवत्तयैव व्याकरणमिदं वङ्गोत्कलशारदाभोटदेव-