Table Of ContentEप्रथमखण्डम् l
व्यार्याचतुष्ठयोपेतम्
कुलपतेः प्रो. राममूर्तिशर्मणः प्रस्तावनया समलङ्कृतम्
सम्पादकः
डॉ. जानकीप्रसादद्विवेदी
SARASVATIBHAVANA - GRANTHAMALA
[ Vol. 135 ]
KATANTRAVYAKARANA
OF
ACARYA SARVAVARMA
[ PART - THREE ]
(VOLUME - 1 )
With four Commentaries
'VRITT & "TIKA'
RN BY
SRI DURGA SINGH
'KATANTRAVRTTI PANJIKA'
= B Y =
SRITRILOCANADASA
'KALAPACANDRA'
BY
KAVIRAJA SUSENA SARMA
Bilveshvaratika
by
Acharya Bilveshvara
'SAMIKSA'
By Editor
FOREWORD BY
PROF. RAMMURTISHARMA
VICE - CHANCELLOR
EDITED BY
Prof. JANAKI PRASADA DWIVEDI
Dean, faculty of Shabdavidya
Central Institute of Higher Tibetan Studies
(Deemed University) Sarnath, Varanasi.
2000
Research Publication Supervisor — ISBN: 81-7270-052-0 (Vol. IIT, Part 1)
Director, Research Institute ISBN : 81-7270-006-7 (Set)
Sampurnanand Sanskrit University
Varanasi.
OD
NPublished by —
Dr. Harish Chandra Mani Tripathi
Director, Publication Institute
Sampurnanand Sanskrit University
Varanasi-221 002.
Available at —
Sales Department,
Sampurnanand Sanskrit University
Varanasi-221 002
णि
First Edition, 500 Copies
Price : Rs. 480.00
OD
Printed by —
Anand Printing Press
C. 27/170-A, Jagatgan],
Varanasi-221 002
सरस्वतीभवन-ग्रन्थमाला
[ १३५ ]
आचार्यशर्ववर्मप्रणीतं
कातन्त्रव्याकरणम्
(तृतीयो भागः)
[ प्रथमखण्डम् ]
श्रीदुर्गसिहकृताभ्या कावन्रवृत्ति-टीकाभ्यां
श्रीमत्रिलोचनदासकृतया 'कातन्त्रवृत्तिपञ्जिका -टीकया
कविराजसुषेणशर्मकृतया 'कलापचन्द्र-टीकया
आचार्यबिल्वेश्वरकृतटीका
सम्पादकीयसमीक्षया
कुलपतेः प्रो०राममूर्तिशर्मणः प्रस्तावनया च विभूषितम्
सम्पादकः
प्रो० जानकीप्रसादद्विवेद:
आचार्यः, सस्कृतविभागे, शब्दविद्यासङ्कायाध्यक्षश्च
केन्द्रीय-उच्चतिब्बतीशिक्षा-संस्थानम्, सारनाथ-वाराणसी
वाराणस्याम्
२०५७ तमे वैक्रमाब्दे १९२२ तमे शकाब्दे २००० तमे खैस्ताब्दै
अनुसन्धानप्रकाशनप्रयविक्षक: -- ISBN : 81-7270-052-0 (Vol. गा, Part 1)
निदेशक:, अनुसन्धान-संस्थानस्य ISBN: 81-7270-006-7 (Set)
सम्पूर्णानन्द-संस्कृत-विश्वविद्यालये
वाराणसी ।
ण
प्रकाशक: -
डाँण्हरिश्चन्द्रमणित्रिपाठी
निदेशक:, प्रकाशन- संस्थानस्य
सम्पूर्णानन्द-संस्कृत-विश्वविद्यालये
वाराणसी-२२१ ००२
OD
प्राप्तिस्थानम् ¬
विक्रय-विभागः,
सम्पूर्णनन्द-संस्कृत-विश्वविद्यालयस्य
वाराणसी-२२१ ००२
D
प्रथमं संस्करणम्, ५०० प्रतिरूपाणि
मूल्यम् - ४८०.०० रूप्यकाणि
मुद्रकः -
आनन्द प्रिंटिंग प्रेस
सी० २७/१७०-ए, जगतगंज,
वाराणसी-२२१ ००२
प्रस्तावना
षडङ्गेषु प्रथमं वाइमलानां चिकित्सितम्, वेदानामपि वेदस्वरूपम्, शब्दानुशासनात्मकं
व्याकरणशास्त्रं शब्दब्र्मावगमपुरस्सरमपवर्गसाधनाय प्रभवति। महर्षिपतञ्जलिना यथा
चित्तगतदोषशमनाय योगसूत्रम्, देहदोषापसारणाय चरकाभिधानं वैद्यकशास्त्रं च प्रणीतमासीत्,
तथैव वाग्दोषापनोदाय महनीयं पदशास्त्रं महाभाष्यमपि विरचितम्। एतेन न केवलं
रक्षोहागमळघ्वसन्देहार्थमेव व्याकरणमध्येतव्यम्, अपि च मितसारवचोरूपवाग्मित्वाधि-
गमायापि व्याकरणमवश्यमध्येतव्यं भवति। पूर्व व्याकरणमष्टधा नवधा चापि प्रसिद्धमासीत्।
साम्प्रतमुपलव्येषु पाणिनीय-कातन्र-चान्द्र-जैनेन्द्र-सारस्वत-सरस्वतीकण्ठाभरण-शाकटायन-
सिद्धहैमादिबहुविधव्याकरणेषु परम्पराद्वयं स्पष्टमवभासते-माहेश्वरपरम्परा माहेन्द्रपरम्परा
च। तत्र माहेश्वरपरम्परामनुसरन्ति पाणिनीय-चान्द्र-सरस्वतीकण्ठाभरणादीनि व्याकरणानि,
परमिदानीं माहेन्द्रपरम्परायाः प्रतिनिधित्वमाचरति केवलं कातन्रव्याकरणमेव। माहेशी
परम्परा प्रत्याहारप्रधाना कृत्रिमरचनायोजनाप्रधाना शब्दलाघवावबोधपरा च प्रतिभासते।
माहेन्द्री परम्परा च लोकव्यवहारप्रधाना सती अर्थलाघवमाविष्कुरुते। एवं पाणिनीय-
व्याकरणप्रक्रिया पर्याप्तं विस्तृता दुरूहा च वर्तते। कातन्रव्याकरणप्रक्रिया सारल्यं
संक्षेपं च वितनुते।
काशकृत्स्नतन्रपेक्षया संक्षिप्तत्वात् कातन्त्राभिधानेन लोके विदितं व्याकरणमिदं
रचनाकारादिविविधाश्रयवैशिष्ट्यवशात् कलाप-कौमार-मुष्टि-शार्ववर्मिक-दौर्गसिंहीय-
नामभिरपि विदितवेदितव्वै्बुधैर्व्यवह्वियते। सुखप्रतिपत्तये प्रवृत्तमर्थलाघवप्रधानमिदं व्याकरणं
लोकाभिधान-शिष्टव्यवहार-प्रक्रियालाघव-विवक्षा-आर्षप्रयोग-सर्ववेदपारिषदत्वादि-
वैशिष्ट्यानि बिभर्तिं। ` वङ्ग-उत्कल-शारदा-भोट-देवनागर्यादिलिपिमयैर्हस्तलेखैद्वादश-
ग्रन्थानां भोटभाषानुवादेन पञ्चचत्वारिंशद्भोटभाषाव्याख्याभिः, जैनाचार्यकृतत्रिंशट्टीकाभिः,
गुरुनाथविद्यानिधिसीतानाथाद्याचार्यकर्तृकवङ्गभाष्यटीकाटिणणीभिः, एतदाधारितबालशिक्षा-
गन्धर्वकलापव्याकरण-कच्चायनादिव्याकरणैमुद्रितैशचापि पज्चचत्वारिंशत्संख्याकैर्ग्रन््थ-
रत्नैरस्य समृद्धं श्रेयस्करं च वाङ्मयं वीक्ष्य कोऽपि सुधीजनः प्रमोदातिशयमवानुयात्।
पूज्यपाददेवनन्दिप्रणीतं जैनेनद्रव्याकरणम्, अभिनवशाकटायनप्रणीतं शाकटायन-
व्याकरणम्, हेमचन्द्रप्रणीत॑ सिद्धहैमशब्दानुशासनं चेति त्रीणि व्याकरणानि असन्दिग्ध-
रूपेण जैनव्याकरणानि मन्यन्ते, जैनाचार्ये: प्रणीतत्वात् ।प रं साम्प्रतं जैनसमाजेन कातन्त्रमपि
परम समादृतम् आत्मसात्कृतं चापि वर्तते। जैनसमाजेन भगवद्ऋषभदेवजयन्तीमहोत्सव-
(२)
सङ्गोष्ठ्याम् आगराजनपदे चत्वारि व्याख्यानानि, दिल्लीस्थेन श्रीकुन्दकुन्दभारतीन्यासेन
द्विदिवसीयाऽखिलभारतीया सङ्गोष्ठी च कातन्त्रमधिकृत्य समायोजिता आसीत्। श्रीकुन्द-
कुन्दभारतीन्यासेन कातन्त्रव्याकरणस्य सर्वाङ्गौणपुस्तकालयोऽप्येकः प्रतिष्ठापयिष्यते।
यत्र मुद्रितलेखानां मुद्रितग्रन्थानां विविधलिप्यात्मकहस्तलेखानां चापि सङ्ग्रहो भविष्यति।
आचार्यकुन्दकुन्दपुरस्कारसम्मानितः प्रो० राजारामजैनमहोदयो व्याकरणमिदं जैनसमाजस्य
गौरवग्रन्थं मनुते।
व्याकरणस्य।स्य प्रभाव: कच्चायनाख्यपालिव्याकरणे, 'तोलकाणियम्' इत्याख्य-
तमिलव्याकरणे च स्पष्टं परिलक्ष्यते। वङ्ग-कश्मीर-राजस्थानादिप्रदेशेषु श्रीलङ्का-भूटान-
नेपाल-तिब्बतप्रभृतिदेशान्तरेष्वपि प्रसिद्धं प्रचलितं च व्याकरणमिदं शास्त्रान्तररताना-
मैश्वर्यसम्भृतानामलसानां लोकयात्रादिषु स्थितानां वणिजां चापि स्वकीयया सरलया
संक्षिप्तया च प्रक्रियया महान्तम् उपकारमातनोत्।
१९९६ तमयीशवीयाब्दस्य `जुलाईमासे प्रकाशनसमिते: स्वीकृत्यनुसारं कातन्त्र-
व्याकरणे आख्यातात्मकस्य तृतीयभागस्य प्रथमखण्डमिदं विदुषां करकमलयोः समुपाहरतो
मोमुदीति मे चेत:। खण्डेऽस्मिष्टीकाचतुष्टयस्य सम्पादनं हिन्दीभाषायां सम्पादकीया
समीक्षा च विदुषां जिज्ञासूनामनुसन्धित्सूनां च महते उपकाराय नूनं कल्पेत। इतः पूर्व
सन्धिप्रकरणात्मकः प्रथमभागः १९९७ तमे यीशवीयाब्दे, नामचतुष्टयाध्यायस्य पूर्वारद्ध-
पादत्रितयात्मको द्वितीयभागीयप्रथमखण्डः १९९८ तमे यीशवीयाब्दे, नामचतुष्टया-
ध्यायस्योत्तरार्द्धपादत्रितयात्मको द्वितीयभागीयद्वितीयखण्डः १९९९ तमे यीशवी-
याब्देऽस्मादेव विश्वविद्यालयात् प्रकाशितः सञ्जातः। इदं नाविदितं विदुषां यद् 'मोदकं
देहि’ इति वचनाश्रिते व्याकरणेऽस्मिन् सम्पादकेन प्रो जानकीप्रसादद्विवेदेन १९९७
तमयीशवीयाब्दस्य लक्षमुद्रात्मक: आचार्य-उमास्वामिपुरस्कारः, 'कातन््रसिन्धुः' इति
सम्मानित उपाधिश्च सम्प्राप्त:।
अत्र वङ्गाक्षरेषु शताधिकवर्षपूर्व मुद्रितान् ग्रन्थानधिकृत्य सम्पादनकरा् य प्रवृत्तमस्ति ।
अस्मिन् सम्पादनकार्ये उद्धृतप्रन्थानां सन्दर्भपूरणेन सौष्ठवं किमपि संवर्धितम्। परमोपयोगिभिः
परिषिष्टैरस्मिन् शोधकार्यसौविध्यमारचितम्। भूमिकाभागे सम्पादकेन पाणिनीयव्याकरणापक्षया
कातन्रीयविध्यादिनिर्देशे साम्यम्, केषाञ्चिद् वचनामां पक्षाणां वा सुखप्रतिपत्ति-प्रपञ्चः-
वैचित्र-बालावबोधाद्यर्थप्रदर्शनसिद्धान्तादिसूचकवचनसङ्ग्रहश्च कृतः। तत् सर्वै सुखेन
कातन्त्रीयविषयावबोधाय नूनमल भवेत्। प्रकीर्ण-दुरूह-महनीयकार्यस्यास्य महता श्रमेण
मनोयोगेन च: समीचीनसम्पादनाय प्रो० श्रीद्विवेदो धन्यवादं प्रशंसां च नितरामर्हति ।
सम्पादनसमीक्षाकर्मणि समर्पितं तमहं सम्प्रीतः सन् विविधैराशीर्वचोभिरभ्युदयेन च
(३)
योजये। इदमाशास्यते आशंस्यते चापि यत् सङ्कल्पितस्यावशिष्टस्यापि कार्यस्य यथोचितं
सम्पादनं प्रकाशनं चाशु सम्पद्येतेति।
ग्रन्थस्यास्य सौष्ठवपूर्णप्रकाशने सन्नद्धाय प्रकाशननिदेशकाय डॉ० हरिश्चन्द्रमणि-
त्रिपाठिने, ईक्ष्यशोधकाय डॉ० हरिवंशकुमारपाण्डेयाय, मुद्रकाय 'आनन्द-प्रिण्टिङ्ग-प्रेस'-
सञ्चालकाय श्रीजगदीशपाण्डेयाय च प्रभूतमाशीराशिं वितरन्नहमतितरां हर्षमनुभवामि।
अन्ते च ग्रन्थमिमं सान्नपूर्णाय श्रीकाशीविश्वेश्वराय समर्पयंस्तं श्रीभवानीजानिं प्रार्थये
यद् ग्रन्थोऽयं पाठकानां महते श्रेयसे प्रभवेदिति।
(5
मक, त शर्मा
वाराणस्याम्
राममूर्तिशर्मा
गुरुपूर्णिमायाम्,
कुलपतिः
वि० सं० २०५७
सम्पूर्णानन्दसंस्कृतविश्वविद्यालयस्य